Vaishnava Songs
खोज

“गोविन्द” के परिणाम

219 भजन · 261 पद भजन के शब्दों में

1 पद भजन में

रघुनाथ दास गोस्वामी

  • पद 2भजन
    इन्द्रत्वे निभृतं गवां सुरनदी-तोयेन दीनात्मना
    शक्रेणानुगता चकार सुरभिर् येनाभिषेकं हरेः
    यत्-कच्छे 'जनि तेन नन्दित-जनं गोविन्द-कुण्डं कृती
    कस् तं गो-निकरेन्द्र-पट्ट-शिखरं गोवर्धनं नाश्रयेत्
1 पद भजन में

रघुनाथ दास गोस्वामी

  • पद 6भजन
    अनादृत्योद्गीताम् अपि मुनि-गणैर् वैणिक-मुखैः
    प्रवीणां गान्धर्वाम् अपि च निगमैस् तत्-प्रियतमाम्
    य एकं गोविन्दं भजति कपटी दाम्भिकतया
    तद्-अभ्यर्णे शीर्णे क्षणम् अपि न यामि व्रतम् इदम्
1 पद भजन में

रघुनाथ दास गोस्वामी

  • पद 10भजन
    दयां यो गोविन्दे गरुड इव लक्ष्मी-पतिर् अलं
    पुरी-देवे भक्तिं य इव गुरु-वर्ये यदुवरः
    स्वरूपे यः स्नेहं गिरिधर इव श्रील-सुबले
    विधत्ते गौराङ्गो हृदय उदयन् मां मदयति