- पद 1भजननव गौर-वरं नव-पुष्प-शरं
नव-भाव-धरं नव-लास्य-परम्
नव-हास्य-करं नव-हेम-वरं
प्रणमामि शची-सुत-गौर-वरम् - पद 2भजननव-प्रेम-युतं नव-नीत-शुचं
नव-वेश-कृतं नव-प्रेम-रसम्
नवधा विलसत् शुभ-प्रेम-मयं
प्रणमामि शची-सुत-गौर-वरम्
इस भजन में 6 और मिलान दिखाएँ
- पद 3भजनहरि-भक्ति-परं हरि-नाम-धरं
कर-जप्य-करं हरि-नाम-परम्
नयने सततं प्रणयाश्रु-धरं
प्रणमामि शची-सुत-गौर-वरम् - पद 4भजनसततं जनता-भव-ताप-हरं
परमार्थ-परायण-लोक-गतिम्
नव-लेह-करं जगत्-ताप-हरं
प्रणमामि शची-सुत-गौर-वरम् - पद 5भजननिज-भक्ति-करं प्रिय-चारुतरं
नट-नर्तन-नागर-राज-कुलम्
कुल-कामिनि-मानस-लास्य-करं
प्रणमामि शची-सुत-गौर-वरम् - पद 6भजनकरताल-वलं कल-कण्ठ-रवं
मृदु-वाद्य-सुवीणिकया मधुरम्
निज-भक्ति-गुणावृत-नात्य-करं
प्रणमामि शची-सुत-गौर-वरम् - पद 7भजनयुग-धर्म-युतं पुनर् नन्द-सुतं
धरणी-सुचित्रं भव-भावोचितम्
तनु-ध्यान-चितं निज-वास-युतं
प्रणमामि शची-सुत-गौर-वरम् - पद 8भजनअरुणं नयनं चरणं वसनं
वदने स्खलितं स्वक-नाम-धरम्
कुरुते सु-रसं जगतः जीवनं
प्रणमामि शची-सुत-गौर-वरम्