- पद 9भजनस्फुरन्-मुक्ता-गुञ्जा-मणि-सुमनसां हार-रचने
मुदेन्दोर् लेखा मे रचयतु तथा शिक्षण-विधिम्
यथा तैः सङ्क्लृप्तैर् दयित-सरसी-मध्य-सदने
स्फुटं राधा-कृष्णाव् अयम् अपि जनो भूषयति तौ - पद 16भजनजितोन्मीलन्-नीलोत्पल-रुचिनि कान्त्योरसि हरेर्
निकुञ्जे निद्राणां द्युति-विजित-गाङ्गेय-गुरुताम्
कदा दृष्ट्वा राधां नभसि नव-मेघे स्थिरतया
वलद्-विद्युल्-लक्ष्म्यां मुहुर् इह दधे थूत्-कृतिम् अहम्
इस भजन में 1 और मिलान दिखाएँ
- पद 20भजनस्तनौ शैल-प्रायाव् अपि तव नितम्बो रथ-समः
स्फुटं जीर्णा नौर् मे कलय तटिनीं वात-विषमाम्
कथं पारं गच्छेर् इह निवस रात्राव् इति हरेर्
वचः श्रुत्वा राधा कपट-कुपिता स्मेरयतु माम्