- पद 1भजनअग्रे कुरूणाम् अथ पाण्डवानां
दुःशासनेनाहृत-वस्त्र-केशा
कृष्णा तदाक्रोशद् अनन्य-नाथा
गोविन्द दामोदर माधवेति - पद 2भजनश्री कृष्ण विष्णो मधु-कैटभारे
भक्तानुकम्पिन् भगवन् मुरारे
त्रायस्व मां केशव लोकनाथ
गोविन्द दामोदर माधवेति
इस भजन में 69 और मिलान दिखाएँ
- पद 3भजनविक्रेतुकामा किल गोप-कन्या
मुरारि-पादार्पित-चित्त-वृत्तिः
दध्यादिकं मोहवशाद् अवोचद्
गोविन्द दामोदर माधवेति - पद 4भजनउलूखले सम्भृत-तन्डुलांश् च
सङ्घट्टयन्त्यो मुसलैः प्रमुग्धाः
गायन्ति गोप्यो जनितानुरागा
गोविन्द दामोदर माधवेति - पद 5भजनकाचित् कराम्भोज् अ-पुटे निषण्णं
क्रीडा-शुकं किंशुक-रक्त-तुण्डम्
अध्यापयाम् आस सरोरुहाक्षी
गोविन्द दामोदर माधवेति - पद 6भजनगृहे गृहे गोप-वधू-समूहः
प्रति-क्षणं पिञ्जर-सारिकानाम्
स्खलद्-गिरं वाचयितुं प्रवृत्तो
गोविन्द दामोदर माधवेति - पद 7भजनपर्य्यङ्किकाभाजम् अलम् कुमारं
प्रस्वापयन्त्यो 'खिल-गोप-कन्याः
जगुः प्रबन्धं स्वर-ताल-बन्धं
गोविन्द दामोदर माधवेति - पद 8भजनरामानुजं वीक्षण-केलि-लोलंगोपि
ग्еहीत्वा नव-नीत-गोलम्
आबालकं बालकम् आजुहाव
गोविन्द दामोदर माधवेति - पद 9भजनविचित्र-वर्णाभरणाभिरामे
-भिधेहि वक्त्राम्बुज-राजःअंसे
सदा मदीये रसने 'ग्र-रङ्गे
गोविन्द दामोदर माधवेति - पद 10भजनअङ्काधिरूढं शिशु-गोप-गूढं
स्तनं धयन्तं कमलैक-कान्तम्
सम्बोधयाम् आस मुदा यशोदा
गोविन्द दामोदर माधवेति - पद 11भजनक्रीडन्तम् अन्तर्-व्रजम् आत्मनं स्वं
समं वयस्यैः पशु-पाल-बालैः
प्रेम्णा यशोदा प्रजुहाव कृष्णं
गोविन्द दामोदर माधवेति - पद 12भजनयशोदया गाढम् उलूखलेन
गो-कण्ठ-पाशेन निबध्यमनम्
रुरोद मन्दं नवनीत-भोजी
गोविन्द दामोदर माधवेति